रविवार, 14 जुलाई 2019

श्रीललितासहस्त्रनाम स्तोत्रम्

     

  श्रीललितासहस्त्रनाम स्तोत्रम्

🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺
आचार्य डा.अजय दीक्षित
🌺🌺🌺🌺🌺🌺🌺


।।न्यास:।।

ऊँ अस्य श्री ललितासहस्त्रनामस्तोत्रमालामहामन्त्रस्य वशिन्यादिवाग्देवता ऋषय: । अनुष्टुप् छन्द: । श्रीललितापरमेश्वरी देवता । श्रीमद्भाग्भवकूटेति बीजम् । मध्यकूटेति शक्ति: । शक्तिकूटेति कीलकम् । मूलप्रकृतिरिति ध्यानम् ।

 

करन्यास –

ऊँ ऎं अंगुष्ठाभ्यां नम: । ऊँ क्लीं तर्जनीभ्यां नम: । ऊँ सौ: मध्यमाभ्यां नम: । ऊँ सौ: अनामिकाभ्यां नम: । ऊँ क्लीं कनिष्ठिकभ्यां नम: । ऊँ ऎं करतलकरपृष्ठाभ्यां नम: ।

 

अंगन्यास: –

ऊँ ऎं हृदयाय नम: । ऊँ क्लीं शिरसे स्वाहा । ऊँ सौ: शिखायै वषट् । ऊँ सौ: कवचाय हुम् । ऊँ क्लीं नेत्रत्रयाय वौषट् । ऊँ ऎँ अस्त्राय फट् । ऊँ भूर्भुवस्सुवरोमिति दिग्बन्ध: ।

 

ऊँ मम श्रीललितामहात्रिपुरसुन्दरीप्रसादसिद्धिद्वारा

चिन्तितफलावात्यर्थे जपे विनियोग: ।।

 

ध्यानम् –

सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत्तारानायकशेखरां स्मित्मुखीमापीनवक्षोरुहाम् । पाणिभ्यामलिपूर्णरत्नचषंक रक्तोत्पलं बिभ्रतीं सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत्पराम्बिकाम् ।।

अरुणां करुणातरंगिताक्षीं धृतपाशांकुशपुष्पबाणचापाम् ।

अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ।।

ध्यायेत्पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वरांगीम् ।

सर्वालंकारयुक्तां सततभयदां भक्तनम्रां भवानीं श्रीविद्यां शान्तमूर्ति सकलसुरनुतां सर्वसम्पत्प्रदात्रीम् ।।

सकुंकुमविलेपनामलिकचुम्बिकस्तूरिकां समन्दहसितेक्षणां सशरचापाशांकुशाम् ।

अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ।।

 

लमित्यादिपंचपूजा

“लं” पृथिवीतत्वात्मिकायै श्रीललितादेव्यै गन्धं परिकल्पयामि

“हं” आकाशतत्वात्मिकायै श्रीललितादेव्यै पुष्पं परिकल्पयामि

“यं” वायुतत्वात्मिकायै श्रीललितादेव्यै धूपं परिकल्पयामि

“रं” वह्नितत्वात्मिकायै श्रीललितादेव्यै दीपं परिकल्पयामि

“वं” अमृततत्वात्मिकायै श्रीललितादेव्यै अमृतनैवेद्यं परिकल्पयामि

“सं” सर्वतत्वात्मिकायै श्रीललितादेव्यै ताम्बूलादि सर्वोपचारान् परिकल्पयामि

 

तत: पारायणं कुर्यात् –

ऊँ ऎं हृीं श्रीं श्रीमात्रे नम

श्रीललितासहस्त्रनाम स्तोत्रम्

🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺
आचार्य डा.अजय दीक्षित
🌺🌺🌺🌺🌺🌺🌺



अगस्त्य उवाच

अश्वानन महाबुद्धे सर्वशास्त्रविशारद ।

कथितं ललितादेव्या: चरितं परमाद्भुतम् ।।1।।

पूर्वं प्रादुर्भवो मातु: तत: पट्टाभिषेचनम् ।

भण्डासुरवधश्चैव विस्तरेण त्वयोदित: ।।2।।

वर्णितं श्रीपुरं चापि महाविभवविस्तरम् ।

श्रीमत्पंचदशाक्षर्या: महिमा वर्णितस्तथा ।।3।।

षोढा न्यासादयो देव्या: न्यासखण्डे प्रकीर्तिता: ।

अन्तर्यागक्रमश्चैव बहिर्यागक्रमस्तथा ।।4।।

महायागक्रमश्चापि पूजाखण्डे समीरिता: ।

पुरश्चरणखण्डे तु जपलक्षणमीरितम् ।।5।।

होमखण्डे त्वया प्रोक्तो होमद्रव्यविधिक्रम: ।

चक्रराजस्य विद्याया: श्रीदेव्या देशिकान्मनो: ।।6।।

रहस्यखण्डे तादात्म्यं परस्परमुदीरितम् ।

स्तोत्रखण्डे बहुविधा: स्तुतय: परिकीर्तिता: ।।7।।

मन्त्रिणीदण्डिनीदेव्यो: प्रोक्ते नामसहस्त्रके ।

न तु श्रीललितादेव्या: प्रोक्तं नामसहस्त्रकम् ।।8।।

तत्र मे संशयो जातो हयग्रीव दयानिधे ।

किं वा त्वया विस्मृतं तज्ज्ञात्वा वा समुपेक्षितम् ।।9।।

मम वा योग्यता नास्ति श्रोतुं नामसहस्त्रकम् ।

किमर्थं भवता नोक्तं तत्र मे कारणं वद ।।10।।

 

सूत उवाच

इति पृष्टो हयग्रीवो मुनिना कुम्भजन्मना ।

प्रहृष्टो वचनं प्राह तापसं कुम्भसम्भवम् ।।11।।

 

श्रीहयग्रीव उवाच

लोपामुद्रापतेsगस्त्य सावधानमना: श्रृणु ।

नाम्नां सहस्त्रं यन्नोक्तं कारणं तद्वदामि ते ।।12।।

रहस्यमिति मत्वाहं नोक्तवांस्ते न चान्यथा ।

पुनश्च पृच्छते भक्त्या तस्मात्तत्ते वदाम्यहम् ।।13।।

ब्रूयाच्छिष्याय भक्ताय रहस्यमपि देशिक: ।

भवता न प्रदेयं स्यादभक्ताय कदाचन ।।14।।

न शठाय न दुष्टाय नाविश्वासाय कर्हिचित् ।

श्रीमातृभक्तियुक्ताय श्रीविद्याराजवेदिने ।।15।।

उपासकाय शुद्धाय देयं नामसहस्त्रकम् ।
यानि नामसहस्त्राणि सद्य: सिद्धिप्रदानि वै ।।16।।

तन्त्रेषु ललितादेव्यास्तेषु मुख्यमिदं मुने ।

श्रीविद्यैव तु मन्त्राणां तत्र कादिर्यथा परा ।।17।।

पुराणां श्रीपुरमिव शक्तीनां ललिता यथा ।

श्रीविद्योपासकानां च यथा देवो पर: शिव: ।।18।।

तथा नामसहस्त्रेषु वरमेतत्प्रकीर्तितम् ।

यथास्य पठनाद्देवी प्रीयते ललिताम्बिका ।।19।।

अन्यनामसहस्त्रस्य पाठान्न प्रीयते तथा ।

श्रीमातु: प्रीतये तस्मादनिशं कीर्तयेदिदम् ।।20।।

बिल्वपत्रैश्चक्रराजे योsर्चयेल्ललिताम्बिकाम् ।

पद्मैर्वा तुलसीपुष्पैरेभिर्नामसहस्त्रकै: ।।21।।

सद्य: प्रसादं कुरुते तस्य सिंहासनेश्वरी ।

चक्राधिराजमभ्यर्च्य जप्त्वा पंचदशाक्षरीम् ।।22।।

जपान्ते कीर्तयेन्नित्यमिदं नामसहस्त्रकम् ।

जपपूजाद्यशक्तश्चेत्पठेन्नामसहस्त्रकम् ।।23।।

सांगार्चने सांगजपे यत्फलं तदवाप्नुयात् ।

उापसने स्तुतीरन्या: पठेदभ्युदयो हि स: ।।24।।

इदं नामसहस्त्रं तु कीर्तयेन्नित्यकर्मवत् ।

चक्रराजार्चनं देव्या जपो नाम्नां च कीर्तनम् ।।25।।

भक्तस्य कृत्यमेतावदन्यदभ्युदयं विदु: ।

भक्तस्यावश्यकमिदं नामसाहस्त्रकीर्तनम् ।।26।।

तत्र हेतुं प्रवक्ष्यामि श्रृणु त्वं कुम्भसम्भव ।

पुरा श्रीललितादेवी भक्तानां हितकाम्यया ।।27।।

वाग्देवीवशिनीमुख्या: समाहूयेदमब्रवीत् ।

देव्युवाच

वाग्देवता वशिन्याद्या: श्रृणुध्वं वचनं मम ।।28।।

भवत्यो मत्प्रसादेन प्रोल्लसद्वाग्विभूतय: ।

मद्भक्तानां वाग्विभूतिप्रदाने विनियोजिता: ।।29।।

मच्चक्रस्य रहस्यज्ञा मम नामपरायणा: ।

मम स्तोत्रविधानाय तस्मादाज्ञापयामि व: ।।30।।

कुरुध्वमंकितं स्तोत्रं मम नामसहस्त्रकम् ।

येन भक्त्यै: स्तुताया मे सद्य: प्रीति: परा भवेत् ।।31।।

 

श्रीहयग्रीव उवाच

इत्याज्ञप्ता: वचो देव्य: श्रीदेव्या ललिताम्बया ।

रहस्यैर्नामभिर्दिव्यैश्चक्रु: स्तोत्रमनुत्तमम् ।।32।।

रहस्यं नामसाहस्त्रमिति तद्विश्रुतं परम् ।

तत: कदाचित्सदसि स्थित्वा सिंहासनेsम्बिका ।।33।।

स्वसेवावसरं प्रादात् सर्वेषां कुम्भसम्भव ।

सेवार्थमागतास्तत्र ब्रह्माणी ब्रह्मकोटय: ।।34।।

लक्ष्मीनारायणानां च कोटय: समुपागता: ।

गौरीकोटिसमेतानां रुद्राणामपि कोटय: ।।35।।

मन्त्रिणीदण्डिनीमुख्या: सेवार्थं यास्समागता: ।

शक्तयो विविधाकारास्तासां संख्या न विद्यते ।।36।।

दिव्यौघा मानवौघाश्च सिद्धौघाश्च समागता: ।

तत्र श्रीललितादेवी सर्वेषां दर्शनं ददौ ।।37।।

तेषु दृष्टोपविष्टेषु स्वे स्वे स्थाने यथाक्रमम् ।

तत: श्रीललितादेवीकटाक्षाक्षेपचोदिता: ।।38।।

उत्थाय वशिनीमुख्या बद्धांजलिपुटास्तदा ।

अस्तुवन्नामसाहस्त्रै: स्वकृतैर्ललिताम्बिकाम् ।।39।।

श्रुत्वा स्तवं प्रसन्नाभूल्ललिता परमेश्वरी ।

ते सर्वे विस्मयं जग्मुर्ये तत्र सदसि स्थिता: ।।40।।

तत: प्रोवाच ललिता सदस्यान् देवतागणान् ।

 

देव्युवाच

ममाज्ञयैव वाग्देव्यश्चक्रु: स्तोत्रमनुत्तमम् ।।41।।

अंकितं नामभिर्दिव्यैर्मम प्रीतिविधायकै: ।

तत्पठध्वं सदा यूयं स्तोत्रं मत्प्रीतिवृद्धये ।।42।।

प्रवर्तयध्वं भक्तेषु मम नामसहस्त्रकम् ।

इदं नामसहस्त्रं मे यो भक्त: पठते सकृत् ।।43।।

स मे प्रियतमो ज्ञेयस्तस्मै कामान् ददाम्यहम् ।

श्रीचक्रे मां समभ्यर्च्य जप्त्वा पंचदशाक्षरीम् ।।44।।

पंचान्नामसहस्त्रं मे कीर्तयेन्मम तुष्टये ।

मामर्चयतु वा मा वा विद्यां जपतु वा न वा ।।45।।

कीर्तयेन्नामसाहस्त्रमिदं मत्प्रीतये सदा ।

मत्प्रीत्या सकलान् कामांल्लभते नात्र संशय: ।।46।।

तस्मान्नामसहस्त्रं मे कीर्तयध्वं सदाssदरात् ।

 

श्रीहयग्रीव उवाच

इति श्रीललितेशानी शास्ति देवान्सहानुगान् ।।47।।

सदाज्ञया तदारभ्य ब्रह्मविष्णुमहेश्वरा: ।

शक्तयो मन्त्रिणीमुख्या इदं नामसहस्त्रकम् ।।48।।

पठन्ति भक्त्या सततं ललितापरितुष्टये ।

तस्मादवश्यं भक्तेन कीर्तनीयमिदं मुने ।।49।।

आवश्यकत्वे हेतुस्ते मया प्रोक्तो मुनीश्वर ।

इदानीं नामसाहस्त्रं वक्ष्यामि श्रद्धया श्रृणु ।।50।।

 

इति श्रीब्रह्माण्डपुराणे श्रीहयग्रीवागस्त्यसंवादे श्रीललितासहस्त्रनामस्तोत्रपूर्वभागो नाम प्रथमोsध्याय: ।।

 

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें